________________ // 2 // पात्रापात्रापरिगणनया प्राणिनां प्रीणनाय स्यात् कारुण्यं कथमितरथा धर्मसर्वस्वकल्पम् // 108 // अत्रैव जन्मनि जनः सुभगम्भविष्णुराढ्यम्भविष्णुरपरत्र परोपकारी / कश्चित्कृतीचसुकृतीचकृतार्थजन्मादानंददातिविपुलंपुलकाञ्चिताङ्गः सप्तमोऽवसरः जिनागमं येऽनधिगम्य सम्यग् गम्भीरमात्मम्भरयो वराकाः / दानं निषेधन्ति वचो न कर्णे कर्णेजपानां करणीयमेषाम् // 1 // नो जानन्ति जिनागमं जडधियो नो सौगताद्यागमं नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् / दातॄणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां मिथ्यादेशनया नयन्ति नरकं लोकं व्रजन्ति स्वयम् महानुभावा भवमुत्तरीतुं प्राणैरपि प्राणिगणोपकारम् / कुर्वन्ति केचित् करुणाचित्ताश्चन्द्रा इवाह्लादितजीवलोकाः // 3 // अन्ये शुचैव परितापितविश्वविश्वा वैश्वानरा इव नरा निरये रयेण गन्तुंद्वयापकृतयो कथयन्ति मिथ्या किं कुर्महे वयमहोविषमोहिमोहः // 4 // तथापि किञ्चित् कथयामि युक्तं मध्यस्थलोकस्य खलूपयुक्तम् / मोहव्यपोहाय विहाय कृत्यं स्वार्थात् परार्थो महतां महिष्ठः // 5 // यावद्वर्ष ननु जिनवृषा वर्षति स्वर्णवर्षं . . हर्षोत्कर्षं प्रणयिशिखिनां कुर्वदुर्वीगतानाम् / नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः निष्क्रान्तिकाले सकला जिनेन्द्रा यादृच्छिकं दानमतुच्छवाञ्छाः यच्छन्ति विच्छिनदरिद्रभावं मेघा इवाम्भो भुवि निर्विशेषम् // 7 // 179