________________ अङ्गीकुर्वाणा: कुशलमतुलं कुर्वते कारयन्ते . तत् स्यानिःशेषं शुभपरिणतेस्तीर्थनिर्वाहकस्य इह हि गृहिणां निर्वाणाङ्गं विहाय विहायितं जिनपरिवृद्धैः प्रौढं बाढं परं परिकीर्तितम् / न खलु पदतो मुख्येऽमुष्मिन्नतीव कृतादरैः कृतिभिरनिशं भव्या भाव्यं भवाब्धितितीर्षया // 101 // ग्लानादीनां पुनरवसरे-सीदतां क्वापि बाढं यन्नादेयं स्वयमुरुतरं दापनीयाः परेऽपि / ' काले दत्तं विपुलफलदं येन सम्पद्यतेऽदः . सद्धान्यानामिव जलधरैः शुष्यतां मुक्तमम्भः // 102 // प्रत्तं विपत्तावुपकारि किञ्चित् सम्पद्यते जीवितकल्पमल्पम् / पुंसः पिपासोः सुतरां मुमूर्षोरानीय पानीयमिवोपनीतम् // 103 // कालेन ता एव पदार्थमात्राः प्रायः कियन्तेऽसुमता महार्घाः। स्वात्यामिवापोऽपि पयोदमुक्ताः स्थूलामलाः शुक्तिमुखेषु मुक्ताः प्रस्तावमासाद्य सुखाय सद्यः सम्पद्यते दुःखकरः पदार्थः / यूनां मदायेन्दुरिव प्रियाभिर्योगे वियोगे परितापहेतुः / // 105 / / यद्यन्यदा न क्रियते तथापि व्यापत्सु कार्य गुरुणाऽऽदरेण / अन्नादिदानं महते फलाय कोऽल्पेन नानल्पमुपाददीत // 106 // इदं विमलमानसो विपुलसम्पदामास्पदं पदं च यशसां परं परमपुण्यसम्पादकम् / मुनीन्द्रजनपूजनं जनितसज्जनानन्दनं विधाय विधिनाऽधुनाऽप्यवधुनाति धन्योऽधमम् // 107 // दीनादीनामपि करुणया देयमौदार्ययुक्तैर्युक्तं दानं स्वयमपि यथा तीर्थनाथैर्वितीर्णम् / 178