________________ भोगारम्भपरिग्रहाग्रहवतां शीलं तपो भावनाः दुःसाधा गृहमेधिनां धनवतां दानं सुदानं पुनः / यस्तत्रापि निरुद्यमो द्रमकधी रौद्रं समुद्रोपमं संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् // 91 // प्रकृतिचपलं पुंसां चित्तं प्रगच्छदितस्ततः कथमपि यदा पुण्यैर्जातं विहायितसम्मुखम् / भवति न तदा कालक्षेपः क्षमो विदुषामहो पुनरपि भवेत् तादृग् नो वा चलं सकलं यतः // 92 // प्राप्ते त्रये ये गमयन्ति कालं ते वेगगच्छत्तरिकाधिरूढाः / / मूढा ग्रहीतुं प्रतिपातयन्ते रत्नाकरे रत्नमयत्नदृष्टम् // 93 // भव्यं वासः श्लाघनीयो निवासः शय्या वर्या प्राज्यभोज्यं शुभाज्यम् / पात्रं पानं भैषजादि प्रधानं भक्त्या देयं साधुसङ्घायं देयम् // 94 // यदात्मनोऽतिवल्लभं जगत्यतीव दुर्लभम् / तदेव भक्तिभाजनैः प्रदेयमाहतैर्जनैः। // 95 // धर्मकार्येऽपि ये व्याजं कुर्वते वित्ततत्पराः। . आत्मानं वञ्चयन्त्युच्चस्ते नरा मूर्खशेखराः // 96 // भो जना भोजनं यावन्न न्यस्तं साधुभाजने / समग्रमग्रतस्तावद् भुज्यते स्वेच्छया कथम् // 97 // निक्षिप्तमक्षते पात्रे विविक्ते गुप्तिशालिनि / ' कल्पते निर्विकल्पं स्वं काले भोमाय भोगिनाम् // 98 // तीर्थस्य मूलं मुनयो भवन्ति मूलं मुनीनामशनाऽऽसनादि / यच्छन्निदं धारयतीह तीर्थं तद्धारणं पुण्यपदं वरेण्यम् // 99 // तीर्थे यद् भव्या भवजलनिधेरुत्तरीतुं तरण्डं सम्यक्त्वं केचिद् विरतिमपरे देशतः सर्वतोऽन्ये / 177