________________ // 84 // रुचितमुचितमुच्चैर्वस्तु देयं दुरापं त्रितयमिदमुदारैः कोऽप्यवाप्नोति पुण्यैः . प्राप्तेऽपि पात्रे सुलभं न वित्तं वित्तेऽपि पुण्यैः पुनरेति चित्तम् / दाने त्रयं कोऽपि भवाब्धिसेतुं प्राप्नोति कल्याणकलापहेतुम् // 85 / / दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद् विधत्त सफलं जना न हि विलम्बितुं सङ्गतम्। . विलोक्य मुनिराकुलं विमलधीनिधानं परं विधानसहितो हि तं बत विलम्बते कोऽपि किम् // 86 / / दायादा आददन्ते दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते / स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् / मूढानां याति बाढं धनमिति निधनं धीधना धीरधन्याः साधूनामर्थयित्वाऽस्खलितमगलितं पॉलितं भुञ्जतेऽग्रे // 87 // नियोगेनायोगो भवति विभवैश्चेद् विभविनां विना किञ्चित् कार्यं रचितपरितापः परवशः / वरं धर्मायासौ विमलयशसे तोषितपरः प्रमोदाय स्वस्य स्ववशविहितः साधितहितः // 88 // अनन्तगुणमक्षतं भवति रक्षितं साधुभिः सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् / प्रयाति निधनं धनं सदनसञ्चितं निश्चितं तथापि न धनप्रिया ददति मोहराजो बली // 89 // ददति सति कदाचिन्मूलनाशेऽपि लोभादिह हि शतसहस्रं लाभसम्भावनायाम् / ध्रुवबहुगुणलाभे नो परत्रार्थनाथा जयति जनसमूहं मोहयन् मोहमल्लः // 90 // 100