________________ // 78 // इष्टं द्वेष्टि गुणाधिकं न गणयेन्मान्यं न वा मन्यते वन्द्यं निन्दति नाभिनन्दति जनो येषां कृते नन्दनम् / स्वाधीनानि धनानि तानि सुधियः सन्त्यज्य ये तस्थिरे मुक्त्यर्थं मुनिपुङ्गवाः सुकृतिनां गच्छन्ति ते मन्दिरै // 76 // निमग्नलोकं गुरुलोभसागरं तरन्ति सन्तोषतरण्डकेन ये। न पादपौरिह सद्म निःस्पृहाः स्पृशन्ति ते पातकिनां तपोधनाः 77 अत्युद्भटलोभभटं जितभुवनं दुर्जयं ये जयन्ति। ते महतां महनीया महानुभावा भुवि भवन्ति सदाभ्यस्ता प्रौढ़ां मुनिपरिवृढां बाढमाहारसंज्ञां प्रतिक्षिप्य क्षिप्रं क्षपितविषमद्वेषरागारिपक्षाः / तपोभिर्ये चित्रश्चिरमुपचितं कर्म निर्मूलयन्ति प्रधानं ते ध्यानामलिनमनसो भाजनं पूजनस्य / // 79 // तनीयांसस्तीत्रै रुचिरवनिताः सत्तपोभिर्विचित्रैश्चमत्कारं चित्ते विदधति सतां वल्लभा दुर्लभा ये। महात्मानो मान्या नरसुमनसां शान्तचित्ता निशान्तं नितान्तं कल्याणा निधय इव ते पुण्यभाजां भजन्ते एवंविधानि पात्राणि पवित्रितजगन्त्यहो। . कियन्ति सन्ति लोकेऽत्र कियन्तः कल्पपादपाः // 81 / / विशति कामदुघा सुरभी शुभा सदसि रोहति कल्पमहीरुहः / भवति नात्र परत्र शुभावहो बहुभवस्य सुपात्रसमागमः // 82 // प्रायोऽस्ति नैकगुणमात्रममत्रमत्र द्वित्रैर्गुणैरनुगतं नितरां दुरापम् / मत्वेति पात्रमुपलभ्य विचक्षणानां नोपेक्षणं क्षणमपि क्षमते क्षमाणाम् यतिपतिभिरसङ्गैः सङ्गतिः पुण्यलभ्या परिणतिरपि दाने दुर्लभा मन्दभाग्यैः / // 80 // .175