________________ // 71 // निर्जिताः शत्रवस्तेन साध्यार्थास्तेन साधिताः। प्राप्तव्यं तेन सम्प्राप्तं मथितो येन मन्मथः // 68 // हरिहरप्रमुखं ससुरासुरं जितवतः स्वभुजैर्भुवनत्रयम् / विजयिनं मदनस्य मदच्छिदं नमति कः सुमतिर्न मुनीश्वरम् // 69 // न वीतरागादपरोऽस्ति देवो न ब्रह्मचर्यादपरं तपोस्ति। नाभीतिदानात् परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् // 70 // परिग्रहमहाग्रहै: परिगृहीतधीविग्रहा विदन्ति न गुणागुणौ न गुरुदेवते मन्वते / अकृत्यमपि कुर्वते परिहरन्ति कृत्यं नरा / भ्रमन्तकि न शेरते न च रति लभन्ते क्वचित् निदानं दैन्यस्य प्रचुरतरचिन्ताहुतभुजः , प्रभूतैनोराशिः शमतरुसमुच्छेदपरशुः / परं क्लेशस्थानं परिभवपदं किञ्चिदपरं विपत्तेरुत्पत्तिर्भवति भविनां सङ्ग्रहरसः // 72 // रचयति प्रचुरं रुचिरं चिरं चटु पटु प्रकटं कटुकं वचः।। प्रसहते हसति प्रहतो नरो नरपतेरिति लोभविजृम्भितम् // 73 // प्रनि(णि)न्द्यः सद्विद्यो विदितपरमार्थोऽपि पुरुषः पुरस्तात् पापानां परुषवचनानां क्षितिभुजाम् / विभो देवेत्याचं वचनमतिदीनं प्रतिदिनं वदत्युच्चैर्यत्तद्विलसति खलो लोभहतक: विश्वं येन वशीकृतं कृतधियोऽकृत्ये कृताः सोद्यमा भाण्डाद्या विकृती: कृतीर्नटभटाश्चित्राकृतीः कारिताः।। तं निर्जित्य परिग्रहग्रहमहो ध्यानादिके तद्धना . ये धन्यस्य(?) तपोधना गुणधना धामानि तेऽध्यासते // 75 // // 74 // 174