________________ // 63 // विजितविषमलोभा ये जगज्जातशोभा गृहमिह शुभभाजां ते भजन्ते यतीन्द्राः // 61 // रामाणां नयने पयोजयिनी लोले पयोबुबुदौ सत्कान्ती कलशोपमौ घनकुचौ पीनौ च मांसार्बुदौ / वक्त्रं पूर्णशशाङ्ककान्ति कलयेच्चर्मावृतं कैकसं यः सद्भावनया सतां स भुवने वन्द्योऽवनीपावनः // 62 // ललितललनालीलालापैविलोलविलोकितैरलसचलितैश्चित्राकाविलासविचेष्टितैः / न हरति म(य)तेर्यस्यालोके मनागपि मानसं मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः विषधरशिरोरत्नं यत्नं विनाऽऽददते बलादरिबलमपि प्रौढं बाढं जयन्ति महौजसः / जगति मनुजा ये विक्रान्ता विषोढुमहो क्षमाः क्षणमपि न तेऽप्येणाक्षीणां कटाक्षनिरीक्षणम् . // 64 // ते शूरास्ते शरण्या रिपुशरविसरस्तैरषास्तः समस्तस्तैः सम्प्राप्ता जयश्रीः सपदि दशदिश: शोभितास्तैर्यशोभिः ते कल्याणकपात्रं त्रिभुवनजयिनः सुध्रुवां दृष्टिपाता बाणवाता निशाता मदननरफ्तेर्यन्मनो नाऽऽक्षिपन्ति . // 65 // अह्मय वह्नौ बहवो विशन्ति शस्त्रैः स्वदेहानि विदारयन्ति। कृच्छ्राणि चित्राणि समाचरन्ति मारारिवीरं विरला जयन्ति // 66 // कलयति कलाः साकल्येनाकलङ्ककलेवरा वदति विशदं वादे विद्याः प्रवेत्ति मनोवराः / रचयतितरां दिव्यं काव्यं न किञ्चन कौतुकं तुदति मदनं चेत् तारुण्ये तदेतदलौकिकम् // 67 // 2103