________________ विलोक्य साधुलोकं यो विकासितविलोकनः अमन्दानन्दसन्दोहः स्यात् स देही सुदर्शनः // 54 // इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् / प्रधानं दर्शनस्येदं वात्सल्यं यत् सधार्मिके येषां तीर्थकरेषु भक्तिरतुला पापें जुगुप्सा परा दाक्षिण्यं समुदारता शर्ममतिः सत्योपकारे रतिः / ते सद्धर्ममहाभरैकधवला: पोता भवाम्भोनिधौ भव्यानां पततां पवित्रितधराः पात्रं परं सदृशः // 56 // चारित्रिणस्तृणमणी गणयन्ति तुल्यं पश्यन्ति मित्रमिव शत्रुमरागरोषाः / किं भूयसा निजवपुष्यपि निर्ममत्वा , ये ते परं त्रिभुवनार्चितमत्र पात्रम् // 57 // ये नित्यं प्राणिरक्षाप्रणिहितमतयोऽसत्यसन्त्यागयुक्तास्त्यक्तस्तेया मृगाक्षीमुखसुखविमुखा मुक्तमुक्तादिमूर्छाः / मूर्ता धर्मा इवैते जितमदमदना मन्दिरं मन्दरागाः / पादीयैः पांशुपातैरिह यतिपतयः पुण्यभाजां पुनन्ति // 58 // त्रिभुवनमिदं व्याप्तं चित्रैश्चराचरजन्तुभिः स्वभरणपरैः पीडां कर्तुं परस्य सदोद्यतैः / / तदपि न तनुत्यागेऽप्यन्यं हिनस्ति कदापि यः कथमिव मुनिर्मान्यो न स्यात् स देव इवापरः // 59 // लोभक्रोधाद्यैः प्राणनाशेऽप्यसत्यं ये नो भाषन्तेऽशेषभाषाविधिज्ञाः / लोकातिकान्तैकान्तकान्तोरुसत्त्वाः सत्त्वांस्ते वाचाऽप्येनसो वञ्चयन्ति निपतितमपि किञ्चित् काञ्चनाद्यन्यदीयं विषविषधरकल्पं कल्पयन्त्यप्यनल्पम् / 12