________________ सातिचारचरित्राश्च कालेऽत्र किल साधवः / कथितास्तीर्थनाथेन तत् तथ्यं कथमन्यथा // 43 // कालादिदोषात् केषाञ्चिद् व्यलीकानि विलोक्य ये। सर्वत्र कुर्वतेऽनास्थामात्मानं वञ्चयन्ति ते // 44 // वहन्ति चेतसा द्वेषं वाचा गृह्णन्ति दूषणम् / अनम्रकायाः साधूनां पापिनो दर्शनद्विषः // 45 // इहैव निन्द्याः शिष्टानां मृता गच्छन्ति दुर्गतिम् / निवर्तयन्ति संसारमनन्तं क्लिष्टमानसाः // 46 // इदं विचिन्त्यातिविविक्तचेतसा यमेव किञ्चिद् गुणमल्पमञ्जसा / विलोक्य साधु बहुमानतः सुधीः प्रपूजयेत् पूर्णमिवाखिलैर्गुणैः।। 47 // . तथा लभेताविकलं जनः फलं निजाद् विशुद्धात् परिणामतः स्फुटम् / अभीष्टमेतत् प्रतिमादिपूजने फलं समारोपसमपितं सताम् // 48 // काष्ठोपलादि गुरुदेवबुद्ध्या ये पूजयन्त्यत्र विशिष्टभावाः / ते प्राप्नुवन्त्येव फलानि नूनं भावो विशुद्धः फलसिद्धिहेतुः // 49 // कालोचितं साधुजनं त्यजन्तो मार्गन्ति येऽन्यं कुधियः सुसाधुम् / दानादिपात्रं द्वितयाद् विहीनास्ते दुर्गति यान्ति हि दुर्दुरूढाः // 50 // वस्त्रादिदानमात्रेऽपि पात्रापात्रपरीक्षणम् / क्षुद्राः कुर्वन्ति यत् केचित् तत् कार्पण्यस्य लक्षणम् // 51 // गेहे समागते साधावौषधादिसमीहया। . अवज्ञा क्रियते यत्तु पातकं किमतः परम् अन्यत्रापि सधर्मचारिणि जने मान्ये विशेषान्मुनौ दृष्टे साधुनिधाविवापनिधने बन्धाविवातिप्रिये / यस्योल्लासिविकासहाससुभगे स्यातां न नेत्राऽऽनने दूरे तस्य जिनो वचोऽपि हृदये जैनं न सन्तिष्ठते // 52 // 101