________________ त्यक्तक्रियः कथमसौ न कथं तपस्वी स्वाध्यायतो न हि तपोऽस्त्यधिकं न कृत्यम् // 33 // स(अ)ज्ञानि(न)तो मूर्खमतीव साधुं यः कष्टचेष्ठानिरतं स्तुवीत। . मार्गज्ञमन्धं स वदेत् सुदृष्टेः समः समाने हि समेति रागम् // 34 // एनांसि योऽहिरजसाऽपि निहन्ति वाचा मोहं व्यपोहति दृशाऽपि पुनः पुनाति / सङ्गेन दुःखमपनीय तनोति सौख्यं / ज्ञानी सतां स महनीयमहानुभावः . . // 35 // ज्ञाने सति भवत्येव दर्शनं सहभावतः / तेनोभयमिदं पूज्यं विभागस्तु विशेषतः // 36 // शुश्रूषा धर्मरागो जिनगुरुजनयोः पूजनाद्याभियोग: संवेगो निर्विदुच्चैरसमशमकृपाऽऽस्तिक्यलिङ्गानि येषाम् / शङ्काकाङ्क्षाद्यभावो जिनवचनरते धार्मिके बन्धुबुद्धिः श्रद्धानं सप्ततत्त्व्यामिति गुणनिधयः सदृशस्तेऽपि पूज्याः // 37 // दर्शनं प्रथमकारणमुक्तं मुक्तिधामगमने मुनिमुख्यैः / ज्ञानमत्र सति तावदवश्यं सम्भवेदपि न वा चरणं तु // 38 // इदमशेषगुणान्तरसाधनं सकलसौख्यनिधानमबाधनम् / कुगतिसङ्गतिनिश्चितवारणं निखिलदारुणदूषणदारणम् // 39 // अपगतोऽपि मुनिश्चरणाद् दृशि स्थिरतरः सुतरां परिपूज्यते / शुभमतेर्महतां बहुमानतः परिणतिश्चरणेऽपि भवेदिति साधुश्चारित्रहीनोऽपि समानो नान्यसाधुभिः / भग्नोऽपि शातकुम्भस्य कुम्भो मृद्घटकैरिव . यद्यऽद्य दुःषमादोषादनुष्ठानं न दृश्यते। केषाञ्चिद् भावचारित्रं तथापि न विहन्यते // 42 // // 40 // // 41 // 170