________________ ज्ञानोत्तमं किमपि किञ्चन दर्शनाढ्यं पात्रं पवित्रितजगत्रयसच्चरित्रम् / किञ्चित् त्रयोगुणमयं द्विगुणं समग्रैः युक्तं गुणैः किमपि पूज्यमशेषमेव // 25 // मिथ्यात्वध्वान्तविध्वंसे पटीयांसो महौजसः / सवृत्ताः कस्य नो पूज्याः स्युः सूर्या इव सूरयः // 26 // तारका इव भूयांसः स्वप्रकाशकरा नराः / प्रकाशयन्तस्तत्त्वानि दुर्लभा भास्करा इव // 27 // किञ्चित्प्रकाशपटवो बहवोऽपि पापाः सन्तापका हुतवहा इव सन्ति लोके / लोकम्प्रि(म्पृ?)णाः प्रकटिताखिलवस्तुतत्त्वाः सत्त्वाधिकाः शशधरा इव पुण्यलभ्याः // 28 // उज्जासयन्तो जाड्यस्य पदार्थानां प्रकाशकाः / . भास्करा इव दुष्प्रापाः साधको विश्वपावनाः // 29 // निःशेषनिर्मलगुणान्तरसारहेतौ संसारसागरसमुत्तरणैकसेतौ / ज्ञाने यतेः सति सतामतिपूजनीये दौर्जन्यमन्यगुणवीक्षणमेव मन्ये 30 आलोकेनैव सन्तापं हरन्तोऽतिमनोहराः। बुधप्रिया विलोक्यन्ते क्वापि पुण्यैः सितांशुकाः // 31 // ज्ञानाधिको वरतर: स्वपरोपकारी मुक्तक्रियोऽपि मतमुन्नमयन् महात्मा / सुद्यतोऽपि करणेन तु शास्त्रशून्यः स्वार्थेऽपि यः कुशलताविकलो वराकः // 32 // जैनं प्रभावयति शासनमङ्गिसार्थं यो बोधयत्यनुपमः कृपया परीतः / 19