________________ चारित्रं दर्शनं ज्ञानं मुनिभ्यो नापरं मतम्। . वयाच्च नापरं पूज्यं कथं पू[ज्याः]न साधवः? . // 13 // क्वचित् त्रयं द्वयं क्वापि दर्शनार्थोद्यमः क्वचित् / प्रायो न निर्गुणो लिङ्गी स्तुत्यः सर्वस्ततः सताम् // 14 // चित्रेऽपि लिखितो लिङ्गी वन्दनीयो विपश्चिताम् / निश्चितं किं पुनश्चित्तं दधानो जिनशासने - // 15 // नानारूपाणि कर्माणि विचित्राश्चित्तवृत्तयः। आत्मनीनं जनः कोऽपि कथञ्चन करोत्थतः // 16 // तस्मान्महान्तो गुणमाददन्तां दोषानशेषानपि सन्त्यजन्तु / . गृह्णन्ति दुग्धं जलमुत्सृजन्ति हंसाः स्वभावः स निजः शुचीनाम् 17 गृह्णनामापि नामेह कुर्वन्नामादि कि पुनः / जिनस्य मन्ये मान्यः स्यात् तद्भक्तानां स्वभावत: // 18 // लेखवाहोऽपि भूपस्य भक्तियुक्तैनियुक्तकैः / मान्यते निर्गुणोऽप्येवं लिङ्गी जिनमतस्थितैः // 19 // सर्वज्ञो हृदये यस्य वाचि सामायिकं करे। धर्मध्वजो जगज्ज्येष्ठो ग्रामणीर्गुणिनामसौ // 20 // न सन्ति येषु देशेषु साधवो धर्मदीपकाः / नामापि तेषु धर्मस्य ज्ञायते न कुतः किया // 21 // धर्मं कुर्वन्ति रक्षन्ति वर्धयन्ति सुमेधसः / कथं न वन्द्या विश्वस्य साधवो धर्मवेधसः // 22 // करणकारणसम्मतिभिस्त्रिधा वचनकायमनोभिरुपार्जयन् / . . कथमपीह शुभं शुभचेतसां मुनिजनोऽजनि पूजनभाजनम् // 23 // ज्यायः पात्रं श्रेयश्चित्तं स्वायत्तं सद्गेहे वित्तम्। एतल्लभ्यं पुण्यैः पूर्णं मुक्तिप्राप्तेर्यानं तूर्णम् // 24 // 168