________________ // 4 // कार्य विनाऽपि विनयो गुरुणाऽपि कार्यः प्रख्यापयन्निति जिनोऽपि नमस्यतीमम् // 2 // क्लेशापहं सपदि सुन्दरनामधेयं स्मृत्याऽप्यमुष्य परिपुष्यति भागधेयम्। आलापमात्रमपि लुम्पति पातकानि कां योग्यतां तनुमतां तनुते न योगः श्रीसङ्के परिपूजिते किमु न यत् सम्पूजितं पूजकैरेतस्मिन् गृहमागते किमु न यत् कल्याणमभ्यागतम् / एतत्पादसरोजराजिरजसा पुंसां समारोहता मूर्धानं प्रविधीयते यदधिका शुद्धिस्तदत्राद्भुतम् यत् किञ्चनापि सङ्के नियोजितं वितनुते विशिष्टफल[म्] / तोयमिव शुक्तिसम्पुटपतितं मुक्ताफलं विमलम् // 5 // अनघे सङ्के क्षेत्रे श्रद्धाजलसिक्तमुप्तमल्पमपि / जनयति फलं विशालं विटपिनमिव वटतरोर्बीजम् . // 6 // वित्तं वितीर्णं विस्तीर्णे पवित्रे पात्रसत्तमे / सङ्के सज्जायतेऽनन्तं न्यस्तमर्ण डूवार्णवे समस्तः पूजितः सङ्घ एकदेशेऽपि पूजिते। विन्यस्तमस्तके पुष्पे पूज्यो जायेत पूजितः गजव्रजस्येव दिशागजेन्द्राः सङ्घस्य मुख्यास्तु मता मुनीन्द्राः / तेभ्यः प्रदानं विधिना निदानं निर्वाणपर्यन्तसुखावलीनाम् // 9 // साधवो जङ्गमं तीर्थं जल्पज्ञानं च साधवः। . साधवो देवता मूर्ताः साधुभ्यः साधु नापरम् / // 10 // तीर्थं ज्ञानं देवता नोपकुर्यात् सत्त्वानित्थं साधुसार्थो यथोच्चैः / धर्माधर्मप्रेरणावारणाभ्यामर्थानौँ साधयन् बाधयंश्च // 11 // साधूपदेशतः सर्वो धर्ममार्गः प्रवर्तते / विना तु साधुभिः सर्वा तद्वार्ताऽपि निवर्तते // 12 // 157 // 7 // // 8 //