________________ . तुपात कातिपात्र पर विज्ञाय किमपि हेयं किञ्चिदुपादेयमपरमपि दूष्यम् / तन्निखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः // 93 // ये लेखयन्ति सकलं सुधियोऽनुयोगं शब्दानुशासनमशेषमलङ्कृतीश्च। छन्दांसि शास्त्रमपरं च परोपकारसम्पादनैकनिपुणाः पुरुषोत्तमास्ते 94 ते धन्या धनिनस्त एव भुवने ते कीर्तिपात्रं परं तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् / ते जीवन्तु चिरं नराः सुचरिता जैनं शुभं शासनं ये मज्जद्गुरुदुःषमाम्बुधिपयस्यभ्युद्धरन्ति स्थिराः // 95 // किं किं तैर्न कृतं न किं विवपितं दानं प्रदत्तं न किं के वाऽऽपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् / नो पुण्यं किमुपाजितं किमु यशस्तारं न विस्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् // 96 // निक्षिप्ता वसतौ सती क्षितिपतेः सम्पत्प्रमोदास्पदं भाण्डागारितमामरं स्थिरतरं श्रेष्ठं गरिष्ठं पदम् / सत्यङ्कारितमक्षयं शिवसुखं दुःखाय दत्तं जलं . धन्यस्तैः स्वधरलेखि निखिलं वैर्वाङ्मयं निर्मलम् // 97 // षष्ठोऽवसरः सङ्घोऽनघः स्फुरदनर्घगुणौ[घ] रत्नरत्नाकरो हितकरच शरीरभाजाम् / निःशेषतीर्थकरमुख्यमुनीन्द्रमान्यः पूज्यो गुरुस्त्रिभुवनेऽपि समोऽस्य नान्यः श्रीसङ्घतः स भवतीति कृतज्ञभावात् पूज्यं ममापरजनाः परिपूजयन्तु / // 1 // 16