________________ // 82 // // 83 // // 84 // // 85 // // 86 // सन्धार्याः सपरिच्छदाः श्रुतधरा वस्त्रानपानादिना लेख्यं शस्तसमस्तपुस्तकमहावृन्दं सदानन्दनम् / आत्मीयं हिमरश्मिमण्डलतले नामेव नामामलं दत्त्वा बन्धन.......दिविधिना संरक्षणीयं सदा द्रविणं सीधारणमुरुकरणीयमथादरेण भरणीयम् / पुस्तकसङ्घादीनां निमित्तमापत्तिसम्पत्तौ कुर्वाणा निर्वहणं धर्मस्यानिधनमित्थमिह धनिनः / बध्नन्त्यनुबन्धि शुभं निबन्धनं बन्धनविनाशे तर्कव्याकरणाद्या विद्या न भवन्ति धर्मशास्त्राणि / निगदन्त्यविदितजिनमतजडमतयो जनाः केऽपि द्रव्यानुयोगः सकलानुयोगमध्ये प्रधानोऽभिदधे सुधीभिः / तर्कः प्रमाणं प्रणिगद्यतेऽसौ सद्धर्मशास्त्रं ननु दृष्टिवादः गणिते धर्मकथायां चरणे द्रव्ये भवेयुरनुयोगाः / व्याख्यानानि चतुर्णां तुर्यो वर्गः समाख्यातः मिथ्यादृष्टिश्रुतमपि सदृष्टिपरिग्रहात्. समीचीनम् / किं काञ्चनं न कदं रसानुविद्धं भवति ताम्रम् दीप इव शब्दविद्या परमात्मानं च दीपयत्युच्चैः / आत्मप्रकाशनेऽपि हि जड़ानि पुनरनन्यशास्त्राणि पङ्गुः पथि गच्छेदपि नाशब्दविशारदो नरः शास्त्रे / कथमप्यर्थविचारे पदमपि चतुरोऽपि सञ्चरति व्याकरणालङ्कारश्छन्दःप्रमुखं जिनोदितं मुख्यम् / सुगतादिमतमपि स्यात् स्यादत स्वमतमकलङ्कम् मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् / यत् सर्वं ज्ञातव्यं कर्तव्यं न त्वकर्तव्यम् // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // 165