________________ // 71 // // 72 // // 73 // // 74 // // 75 // अर्हच्छीचूडामणिकेवलिकाज्योतिरमलशास्त्रादेः। संवादिनो जिनोक्तादतीन्द्रियेऽप्यागमः सत्यः एवंविधसिद्धान्तात् सर्वज्ञः साधु साध्यते साधु / विप्रतिपत्तौ झटिति प्रकटं कूटस्य दुर्दशस्यापि लिङ्गागमविगमे यो यदृतं जल्पति स वेत्ति तदवश्यम् / कन्थां कथयंस्तां नर इव लिङ्गागमापगमे नैवागमोऽस्त्यमूलः सम्बद्धाग्रहणतो न लिङ्गमपि। तथ्यमतीन्द्रियमर्थं साक्षाद्विदितं जिनो वदति धर्म विशुद्धमधिगच्छति साधुबोधो / यः श्रद्दधात्यविधुरो विधिना विधत्ते / सम्बोधयत्यबुधभव्यजनं भवाब्धेरुत्तारकः स करुणः स गुरुर्गुणाढ्यः / यो बोद्धा श्रद्धालुः स्पृहयालुः शिवपदाय सुदयालुः / धर्मं गृणाति जनमनुग्रहयालुः सोऽपि गुरुरतन्द्रालुः / देवागमगुरुतत्त्वं परीक्षितं पण्डितैरुपादेयम् / तापाद्यैरिव काञ्चनमिह वञ्चनमञ्चनमनर्थे . गुरुदेवयोः स्वरूपं निरूपितं प्रक्रमागतं किमपि / आगमतत्त्वं प्रकृतं समासतस्तत् समाम्नातम् आगमाधिगमनीयमशेषं निर्दिशन्ति खलु धर्मविशेषम् / आगमव्यपगमे हि नियोगाज्जायते सकलधर्मविलोपः आलोकेन विना लोको मार्ग नालोकते यथा / विनाऽऽगमेन धर्मार्थी धर्माध्वानं जनस्तथा उच्छिद्यमानो यत्नेन धर्मानुच्छेदवाञ्छया / आगमः सति सामर्थ्य रक्षणीयो विचक्षणैः // 76 // // 77 // // 78 // // 79 // // 80 // // 81 // 14