________________ . . // 6 // इत्थं मोहादिदोषेण पुरुषो भाषते मृषा। ' रागादिदोषमुक्तस्य किमुक्तौ कारणं मुधा वचो विचार्यमाणं तु विचारचतुरैनरैः / अकर्तृकं घटकोटिसंटकं नातिटीकते। ताल्वादिहेतुव्यापारपारवश्येन दृश्यते / अवश्यं वचनं सर्वं तत् कथं कथ्यतेऽन्यथा यदुत्पाद्यः पदार्थो हि निश्चितो यो विपश्चिता। सततः सर्वदा ज्ञेयो धूमो धूमध्वजादिव अथ वेदस्य कर्तारं नरं नोपलभामहे। . अपौरुषेयतामस्य परिभाषामहे ततः देशान्तरादावुत्पन्नाः पदार्था ये पटादयः / अदृष्टकर्तृकास्तेऽपि नन्वेवं स्युरकर्तृकाः अथैतेषां विधातारस्तद्देशादिव्यवस्थितैः / प्रमीयन्ते ततः सन्तु पौरुषेयाः पटादयः ननु वेदस्य कर्तारं तद्देशादिगता जनाः / न जातु जानते वेत्ति कथमेतद्भवादृशः वेदकर्तृपरिज्ञातृशून्यं विश्वमिदं सदा / इति यो वेत्ति सर्वज्ञः स एव भगवानिति किञ्च वेदो निजं नार्थं समर्थो भाषितुं स्वयम् / यज्ञतत्फलसम्बन्धं सम्बुध्यन्ते बुधाः कथम् स्वयं सङ्कल्प्य जल्पन्तो दोषदूषितबुद्धयः / प्रेक्षावतां कथं ग्राह्यवचनाः स्युर्द्विजा यतः . नरोत्तमं निराकृत्य नरपाशंपशुप्रियाः धर्मोपदेशदातारं वदन्तो विप्रतारकाः // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // 158