________________ // 52 // नश्यन्ति मलतापाद्याः कुर्वतां जिनमज्जनम् / आश्चर्यं न विचार्यन्ते विभूनां हि विभूतयः // 50 // श्रीखण्डकुङ्कुमरसादिविलेपनानि कर्पूरसन्मृगमदादिविमिश्रितानि / कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा दिव्याङ्गनाजनमनोऽभिमता रमन्ते महामूल्यैर्माल्यैः परिमलमिलन्मत्तमधुपैः सपर्या पर्याप्तां सकलजगदाप्तस्य विधिना / विधायोल्लोचाद्यं विविधमनवद्यं सरभसः सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति भक्ताद्यैर्भूरिभक्षैर्हतजनहृदयैर्मोदकाद्यैः सुखाद्यैः सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूष्यावलेझैः / द्वेधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा गृहीताहाय भव्या निधिमिव विधिना शर्मदं धर्मराशिम् // 53 // दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां दानानन्दितदीनमार्गणगणां सङ्गीतवाद्याद्भुताम् / यात्रा चित्रविलासलास्यसुभगां तुङ्गभ्रमत्स्यन्दनां कृत्वा तीर्थकृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः // 54 / / // 1 // . . पञ्चमोऽवसरः आगमो वीतरागस्य वचनं स्यादवञ्चनम् / सम्मोहरागरोषाः स्युर्दोषा वञ्चनहेतवः -युक्तायुक्तं विवेक्तुं ना मूढो परिवृढो दृढम् / ब्रूते हेयमुपादेयं द्रव्यं कूटं खरं यथा रक्तो वक्ति निराचारं सदाचारं सुहृज्जनम् / द्विष्टो द्विषज्जनं शिष्टमाचष्टे दुष्टचेष्टितम् // 2 // ૧પ૦