________________ ... // 39 यत्नेन रत्नखचितं रुचितं किरीटं . ये हाटकादिघटितं स्फुटकीटिकूटम् / भक्त्या जिनाधिपतिमूर्ध्नि निवेशयन्ति ते शेखरा इव शिरःसु नृणां भवन्ति ये जिनपतिभालतले तिलकं रचयन्ति रत्नचयरुचिरम् / स्युर्महतामपि महिता महीतलस्यापि तिलकास्ते // 40 // देवकर्णयुगले तु कुण्डले कुर्वतां स्फुरितदीप्तिमण्डले। जीव नन्द जय देव केवलं पेशलं विंशति कर्णयोर्वचः // 41 // ग्रैवेयं ग्रीवायां समग्रजगदग्रिमस्य रचयन्ति। .. ये रत्नरचितमुचितं चञ्चच्चामीकरं चारुम् // 42 // कण्ठोपकण्ठे कठिनस्तनीनां हठाल्लुठत्युज्ज्वलकण्ठिकेव। उत्कण्ठिता कोमलकामिनीनां तेषां नतिः सन्ततमातताक्षी // 43 // यस्तीर्थकृतां सुकृती हारं वक्षस्थलेऽवलम्बयति / हारायते मनोहरहरिणाक्षीणां स हृदयेषु // 44 // श्रीवत्समतिविशाले जिनेशवक्षःस्थले निवेशयताम् / शेते वक्षस्तल्पे श्रान्तेव श्रीरविश्रान्तम् अङ्गदे जगदीशस्य कुर्वतामङ्गसङ्गिनी। जयश्री: बाढबद्धव बाहुदण्डौ न मुञ्चति // 46 // यो जिनभुजयोर्भक्त्या निवेशयेन्मणिमयानि वलयानि / भूवलयं भुजयुगले प्रविलसति विलासिनस्तस्य // 47 // एवमादिमलङ्कारं कारयन्ति जिनस्य ये। निवारयन्ति दुर्वारं नरास्ते दुःखवारणम् . // 48 // स्नानं जगत्त्रयपतेर्विधिना विधाय सर्वाङ्गसङ्गतमसङ्गतसर्वतापाः। : निर्धूतधौतकलधौतरुचोतिरोच्यं श्रेयोऽनुभूय भवभावभिदो भवन्ति४९ . // 45 // 156