________________ तेन कृत्यं कृतं सर्वं दुष्कृतं च निराकृतम् / कृतिना कारितं येन केतनं पुण्यकेतनम् // 29 // रोचिष्णुरत्नचयनिर्मितंनिर्मलाङ्गी स्फारां स्फुटस्फुरदुरुस्फुटिकां सरूपाम् / श्रीराजपट्टघटितां प्रबलप्रवालां कार्तस्वरप्रवरभास्वरकान्तकायाम् // 30 // सद्रीतिका-रजत-दन्तमयीं महिष्ठां श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् / ये मृण्मयीमपितनिष्ठित,स्वशक्त्या निर्मापयन्तिविधिनाप्रतिमांजिनस्य वियोगदौर्भाग्यदरिद्रताव्यथां पराभवं दुस्सहदुःस्थताकथाम् / विदन्ति वार्तामपि तेन दुर्गतेरभीष्टपुण्या इव पापसङ्गतेः // 32 // सत्यङ्कारोर्पितः स्वर्गे मर्त्यशर्म वशीकृतम्। . शासनं लेखितं मोक्षे पुंसा कारयता जिनम् // 33 // कल्याणसम्पदखिलाऽपि वशीकृतोच्चैरुच्चाटितं स्वमनसो ननु वैमनस्यम् / विद्वेषितोऽनभिमताहितसम्प्रयोगः / संस्तम्भितोऽतिशुभवल्लभविप्रयोगः // 34 // तन्नास्ति यन्न विहितं स्वहितं प्रशस्तं तन्नास्ति यन्त्र दुरितं त्वरितं निरस्तम् मर्येन संविदधता प्रतिमाप्रतिष्ठामात्मा नरोत्तमपदे गमितप्रतिष्ठाम् 35 स्वविषयभुक्तिभूर्जं स्वहस्तितं सौख्यपत्तला लिखिता। मुक्तौ दूतो भूतः स्थापयतां जिनपतिप्रतिमाम् // 36 // सत्पुरुषाणां मध्ये कृतो निबद्धो निवारिता सेवा / जिनराजाज्ञाराधनविधानतः फलमिदं सिद्धम् // 37 // प्रतिष्ठितो जगन्नाथो यावन्नालङ्कृतो नरः / कथङ्कारमलङ्कारैस्तावद् भूयेत भूतले // 38 // .. . 155