________________ मदनसूदनसुन्दरमन्दिरं गरिमनिर्जितलज्जितमन्दरम् / भवति कारयतां करवर्तिनी प्रणयिनीव विमानवरावली // 18 // ये कारयन्ति सदनं भवसूदनस्य ते भासुरं सुरविमानममानमाप्य / हारा इवातिकमनीयकुचोन्नतेषु वक्षस्थलेषु विलसन्ति विलासिनीनाम् सुन्दरं मन्दरोदारं मन्दिरं मदनद्विषः / कारयित्वाऽधिरोहन्ति मालम्बा लीलया दिवम् // 20 // भग्नाद्रिशृङ्गशृङ्गारमंगारं त्रिजगद्गुरोः / . निर्माय निर्मलं धाम शिवं धावन्ति धार्मिका: // 21 // ताण पाणं भक्तिपूर्णाः कुटीरं शक्त्या जैनें ये जनाः कारयन्ते / मुख्यं सौख्यं तेऽपि मामराणों भूयो भुक्त्वा मोक्षलक्ष्मी लभन्ते 22 अधममध्यमसत्तम............ सदनपुस्तकसुप्रतिमादितः / भवति येन फलं न भिदेलिमं किमुत सत्परिणामविशेषतः // 23 // भो भो भव्याः विभाव्येदं यतध्वं भावशुद्धये / सर्वकामदुधा श्लाघ्या भावशुद्धिः शुभात्मनाम् // 24 // धर्मसत्रं गुणक्षेत्रं प्राणित्राणामृतप्रपा। श्रीजिनायतनं नाम समाम्नातं मनीषिभिः // 25 // स्वर्गापवर्गसोपानं दुर्गतिद्वाररोधनम् / मन्दिरं मदनारातेरामनन्ति मनस्विनः // 26 // आयान्या(!) यततेयतो यतिजनाः कुर्वन्ति सद्देशनां श्रुत्वा धर्मपरा भवन्ति भविनो भव्या भवाम्भोनिधिम् / अक्लेशेन तरन्ति दुस्तरतरं तस्मादिदं कुर्वता कल्याणं सकलं जनस्य जनितं सत्त्वेन सत्त्वाप्तिना मर्त्यमस्तकमाणिक्यं क्षोणीमण्डलमण्डनम् / / कोऽपि कारयते पुण्यः कुलकेतुनिकेतनम् / // 28 // // 27 // 154