________________ कान्ता नितान्तकुपिता निजवल्लभाय यावल्लभेत शुभदुर्लभभूषणादि। तावत् प्रसीदति निषीदति सन्निधाने दानं प्रसाधनविधाविह सिद्धतन्त्रम् कान्ताप्रसादनविधिप्रमुखं न मुख्यं दृष्टान्तमात्रमिदमत्र फलं मयोक्तम् / दानार्जितोर्जितशुभोदयतस्तु पुंसां / कल्याणमेव सकलं भवतीति युक्तम् // 11 // द्रविणं विश्राणयतामुपद्रवा विद्रवन्ति पुरुषाणाम् / दानं व्यसनहुताशनविनाशनघनाघनवनौघः - // 12 // स्पर्शनं सपदि सम्पदां पदं हाटकस्य निपतन्ति कोटयः / पात्रदातृसदनेषु दानतः सुप्रसिद्धमिदमागमे यतः // 13 // भोगाः श्रीशालिभद्रप्रमुखतनुमतां सम्मताः सुप्रसिद्धाः सिद्धान्ते मूलदेवप्रभृतितनुभृतां प्राज्यराज्यादयश्च / निर्वाणं श्रीजिनेभ्यः प्रथमपृथुतपोऽनन्तरं पारणायां दातृणां तत्र दानात् फलमलघु भवे वादि(?) यद्वा तृतीये // 14 // एकं वस्तु वितीर्यमाणमडकं (?) राजादिसाधारणं [राज्यं स]त्वरगत्वरं स्थिरतरं स्थूरं परव्याहृतम् / सूते कीर्तिजनानुरागसुकृतस्तोमं तथाप्युद्यमो। दाने किं न विधीयते ध्रुवमहालाभे शुभे लोभिनः // 15 // सत्यं चेद्भवतां प्रियं धनमपि प्राणात्यये दुस्त्यजं वृद्धि यातममन्दसम्मदरसं चित्ते विधत्तें जनाः(?)।। ...सुक्षेत्रेषु तदाखिलेषु वपत श्रद्धाम्बुभिः सिञ्चत श्रेयोऽनन्तगुणं भविष्यति यतः कालेऽब(? म)लं प्राप्नुत // 16 // . हर्ये रम्ये तीर्थनाथस्य बिम्बे श्लाघ्ये सङ्के पुस्तके च प्रशस्ते / सप्तक्षेत्र्यां मोक्षलक्ष्मी प्रसूते सूतं भव्यैः सत्तमं वित्तबीजम् // 17 / /