________________ स्वर्गापवर्गसुखसम्पदियं परोक्षा प्रत्यक्षमेव फलमेतदहिंसकस्य / यत्प्रस्तुतस्तुतिकृतानति विश्वविश्वं विश्वासमेति कु..... रत्वम् / / 53 // चतुर्थोऽवसरः अन्नादिदानमिदमस्तनिदानबन्धं सद्भावनाविधिपरस्य भवप्रबन्धम् / छिन्ते यशो वितनुते कुशलं प्रसूते दातुः परं जनयतीह जनानुरागम् 1 आगांसि संस्थगयति प्रकटीकरोति विद्यादिकं गुणगणं गणनां विधत्ते। क्रुद्धं प्रसादयति सादयते विपत्ति सम्पत्तिमानयति किं न शुभं बिभर्ति स्वर्गादिमुख्यसुखसम्पदवाप्तिहेतुः संसारसागरसमुत्तरणैकसेतुः / दानं जिनेन सदनस्थजनस्य युक्तमग्रेसरं सुकृतसाधनमेतदुक्तम् // 3 // शूरः सुरूपः सुभगोऽस्तु वाग्मी शस्त्राणि शास्त्राणि विदाङ्करोतु / दानं विना दिग्वलयं समस्तं मयों न कीर्त्या धवलं विधत्ते // 4 // आहाराद्यं भवति ददता साधुदेहं प्रदत्तं दत्ते देहे सकलमतुलं निर्मलं धर्मकर्म / तस्माद्दानं निरुपममिदं साधनं धर्मराशेरस्याभावे विरमति यतो मुक्तिमार्गः समग्रः अकलाकुशले कुलशीलवजिते सकलविमलगुणविकले / दातरि कल्पतराविव नरे नु रज्यन्ति जननिवहाः अशेषदोषसङ्घातं दानमेकं शरीरिणाम् / तिरोदधाति वस्तूनां रूपं वान्तिरिवोद्धतम् शीलंकुलं कुशलतांचकलाकलापे शौचंशुचीनि चरितानि तथाऽपराणि विश्राणनं तनुमतां नयति प्रकाशं वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् समग्रसद्गुणग्रामग्रामणीरिव गण्यते। निर्गुणोऽपि जनैर्दाता चिन्तामणिरिवोपल: // 5 // // 7 // // 9 // 152