________________ दरिद्रो दुर्भगो दुस्थः सदाधिव्याधिबाधितः / पराश्रितः पराभूतः प्राणी प्राणितुमिच्छति // 45 // येन येन प्रकारेण प्राणिनां जायते व्यथा / तं तं दूरेण धर्मार्थी वर्जयेद् दुर्जनं यथा // 46 // सकलरोगजराविकला जना जनितसज्जनमानसरञ्जनाः / यदतुलं विलसन्ति चिरायुषस्तदखिलं खलु जीवदयाफलम् // 47 // रति रतेरुत्तमरूपसम्पदा सदा नुदन्त्यः सुखसम्पदां पदम् / दयानुभावेन विभूतिभाजनं भवन्ति रामाः सुभगाः शुभाङ्गजाः।। 48 // कन्दर्प नष्टदर्प प्रविदधदधिकं देहकान्त्या लसन्त्या लोकानां नेत्रपात्रैर्नव इव रजनीनायक: पीयमानः / मर्त्यः पुत्रैः कलत्रैविरहविरहितो मोदते दीर्घकालं कल्पः कल्याणहेतोरभयवितरणात्तारतारुण्यपुण्यः / // 49 // निर्व्यासङ्गमनङ्गतापरहिता यत् प्रेयसीसङ्गताः श्रीशृङ्गाररसैकसागरगता निश्चिन्तचित्ता नराः / नीरोगा जरसा विमुक्तवपुषो जीवन्ति पल्यत्रयं तन्मन्येऽभयदाननिर्मललसच्चिन्तामणेश्चेष्टितम् // 50 // अनुत्तरनिवासिनो यदतराणि भूयांस्यहो . सदा सुखमनुत्तमं शिवसुखोपमं भुञ्जते / अचिन्त(न्त्य)मवपुःक्रियं विगतपारवश्यव्यथा . 'व्यतीतविषयस्पृहास्तदतुलं दयायाः फलम् - // 51 // यनिर्वाणे जननमरणव्याधिमुक्ते विमुक्ता वाञ्छच्छेदोच्छलितकलितक्लेशविश्लेषसौख्ये / श्लाघ्यस्थानोपमितिरहिते नित्यमेकान्तकान्ते संतिष्ठन्ते विलसितमिदं प्राणिसंरक्षणस्य // 52 // 151