________________ // 37 // दन्दह्यन्ते कृपाऽपात्रं विचित्रैः पशवोऽत्र यत् / स जन्तुघातसञ्जातपापपादपपल्लवः // 35 // उदन्यया दुःसहयाऽशनायया नितान्तशीतातपवातपीडया / . मृति मृगाद्या गुरुभिर्गदव्रजैव्रजन्ति तज्जन्तुविघातचेष्टितम् // 36 // असम्प्राप्तप्रतीकाराः सतां कारुण्यगोचराः / चिरं जीवन्ति रोगार्ता जीवघाताद्वनेचराः प्रपाय्यन्ते तप्तं त्रपु दहनकल्पं दहदहो प्रखाद्यन्ते मांसं निजतनुसमुत्थं सुविरसम् / विपाट्यन्ते चित्रैर्निशितकरपत्रैरकरुणं . प्रशाय्यन्ते शय्यां प्रतिदहनहेतिप्रतिभयाम् ____ // 38 // कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले / पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः .. // 39 // इत्थं कदर्थनमनेकविधं सहन्ते यन्नारका नरककूपकमध्यमग्नाः।। कालं प्रभूतमतिमात्रमनन्तरांलं हिंसाफलं तदखिलं खलु खेलतीह 49 जन्तूपघातजनितोत्कटपातकस्य. मत्वा कटुं प्रकटमत्र विपाकमेनम् / भव्या भवन्तु भवसम्भवदुःखभीताः प्राणिप्रबन्धपरिरक्षणबद्धकक्षाः // 41 // येषां यत्र समुत्पत्तिस्तेषां तत्र परा रतिः / निम्बकीटस्य निम्बेऽपि रतिर्लोकेऽपि कथ्यते // 42 // पुरन्दरः पुरन्दारैरुदारैः सममामरीम् / अधिष्ठितो यथा मर्तुं तथा मर्योऽपि नेच्छति . // 43 // अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये। समाना जीविताकाङ्क्षा तुल्यं मृत्युभयं द्वयोः / // 44 // 150