________________ सम्पत्त्यभावादशनादि दातुं ज्ञानं च शक्यं सकलैन लोकैः / अदीयमानेऽपि न च द्वयेऽपि सम्पद्यतेऽस्मिन्नरकादिपातः // 24 // अभयमदत्तं दारुणनरकादि निपातकारणं तेन / स्ववशमकष्टमनश्वरमनिशं देयं कुशलकामैः // 25 // विषयोऽस्य सर्वजीवा मुक्ताः संसारिणश्च ते द्वेधा / संसारिणो द्विधा स्युः स्थावरजङ्गमविभागेन // 26 // अवनिवने पवनसखः पवनश्च वनस्पतिश्च पञ्चविधाः / स्थावरसंज्ञा ज्ञेया विकलाक्षा द्वित्रिचतुरक्षाः // 27 // पञ्चेन्द्रियैः सहैते जङ्गमनाम्ना समाम्नाताः / इति जीवा निजजीवितसदृशाः सदृशा [सदा] दृश्याः // 28 // नानादुःसहदुःखदूनमनसो दीना दयाभाजनं, जायन्ते यदतीवतीव्रविविधव्याधिव्यथाव्याकुलाः। दारिद्र्योपहताः पराभवपदं यन्मानिनो मानवास्तन्मन्ये परपीडनाविषतरोः पुष्पं फलं चापरम् // 29 // उदग्रतारुण्यजुषां च योषितां यदत्र वैधव्यमहाविडम्बना / भवेदथो दुर्भगतादरिद्रताप्रभृत्यदो निर्दयताविजृम्भितम् // 30 // सम्पद्यते मृतापत्या पत्या नित्यं वियुज्यते / पतत्यत्यन्तसापल्ये स्त्री नित्रिंशतयाऽनिशम् // 31 // इहामगर्भेषु च यान्ति जन्तवो मृति कुमारास्तरुणाश्च दारुणाम् अपूर्णकामा कमनीयकामिनीमनोरमा निर्दयताप्रसादतः // 32 // यज्जीवलोके लोकानामकल्याणं विलोक्यते / हिंसाफलमिदं सर्वं वदन्ति वदतांवराः // 33 // दहनदम्भनवाहनदोहनैर्वधविबन्धनरोधनकर्तनैः / दमनभेदनखेदनमारणप्रमुखदुःखगणैरतिदारुणैः // 34 // 149