________________ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् / तत्साधनं तदर्थं च समस्तमपरं यतः // 13 // जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् / अपनीतेऽपनीतं वा तन्मूलमखिलं यतः // 14 // पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् / त्यजन्ति जन्तवो जातु जीवितं न कथञ्चन // 15 // प्राणेभ्यो नापरं प्रेयों न पुण्यादपरं हितम् / न प्राणिरक्षणादन्यत् पुण्यं जगति विद्यते // 16 // राज्यं प्राज्यं ललितललना मत्तमातङ्गपूगान् भक्तान् पत्तीन् पवनजविनो वाजिनः स्यन्दनांश्च / भाण्डागारं नगरनिकर मेदिनीमन्यदिष्टं दिव्यं सर्वं तृणमिव जनो जीवितार्थे जहाति - // 17 // एकच्छवं ददात्येको महादाता महीतलम् / प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः .. // 18 // प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः / जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् // 19 // अभयदाननिदानतया स्तुतं वितरणं तु विदः खलु कोविदैः / अशनसद्वसनाद्यपि दीयते जगति जीवितपालनलोलुपैः // 20 // निखिलदानफलं तदिदं मतं मतिमतामभयस्य विहायितम् / सकलसत्त्वसमूह[समी] हितं महदतो महितं जगते हितम् // 21 // ज्ञानदानं समीहन्ते महीयांसो महाधियः / महनीया महाभागा विरलाः केऽपि मानवाः // 22 // अन्नादेश्च ग्रहीतारस्तारकास्तारचेतसः / दुर्लभा मुनयोऽन्येऽपि दीनाद्याः कतिचिन्नराः // 23 // 148