________________ // 4 // // 6 // // 7 // ज्ञानाभ्यासो गुरुजननुति.... .................. / हानीव प्रकटमहिमश्रीरसेन्द्रान्वितानि .......... श्रेयः साध्यं फलमविकलं कुर्युरेतद्युतानि लाभविकलं वाणिज्यं भक्तिविहीनं च देवतास्तवनम् / ज्ञानं च जीवरक्षणरहितं भस्मनिहुतं नियतम् वदतु विशदवर्णं कर्णपीयूषवर्ष पठतु ललितपाठं भव्यकाव्यं करोतु / विमलसकलशास्त्रं बुद्धयतां शुद्धबुद्धियदि न खलु दयालुः स्यात्तदाऽरण्यरोदी पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् / घनगजितमिव विजलं विफलं सकलं दयाविकलम् दीक्षाऽऽदानं गुरुपदयुगाराधनं भावसारं ज्ञानाभ्यास: सुचिररचितश्चित्तवृत्तेनिरोधः / गाढाः सोढा दृढतरधिया दुःसहा शीतवाताः वावुप्तं ननु यदि दयाशून्यमेतत् समस्तम् तदेतद्धर्मसर्वस्वं तदेतद्धर्मजीवितम्। रहस्यमेतद्धर्मस्य यदेतत् प्राणिरक्षणम् .. जन्म पुरुषार्थरहितं पुरुषार्थो धर्मवर्जितः पुंसाम् / धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् विभवविकलो विलासी विकामिनीकश्च कामुकविलासः / रमणी च रूपरहिता न शोभते निर्दयो धर्मः विनयविहीनं शिष्यं गुरुमपि तत्त्वोपदेशनाशून्यम्। निर्जीवदयं धर्मं न जातु सन्तः प्रशंसन्ति // 8 // // 9 // // 10 // // 11 // // 12 // 147