________________ // 34 // सेव्यन्ते च शुभोपदेशकुशला धर्मार्थकामार्थिनां साथैः स्वार्थपरार्थतत्परधियो देवा इवाराधकैः // 31 // कुर्वाणा गीर्वाणा निर्वाणार्थं श्रुतस्य बहुमानम् / श्रूयन्ते श्रुतभाजां महामुनीनां च बहुमानम् // 32 // जायन्ते च यतीनां श्रुतानुभावेन लब्धयो विविधाः / फलमैहिकमामुष्मिकममलामरनरशिवसुखानि . // 33 // धर्मार्थकाममोक्षाणां कीर्तेश्चैकं प्रकीर्तितम् / ज्ञानं जलमिवावन्ध्यं धान्यानां सन्निबन्धनम् इदं विदित्वा श्रुतसङ्ग्रहे गुरुर्गुरुक्रमाम्भोजरतैरनारतम् / समीहमानैरसमां समुन्नतिं समुद्यमः सद्विधिना विधीयताम् // 35 // गुरुजनमुखे भक्त्या न्यस्यन् मुहुर्मुहुरीक्षणे क्षणमपि कथां कुर्वन्नान्यां न चापरचिन्तनम् / उपचितरुचिः सूत्रस्यार्थे शिरोरचिताञ्जलिः पुलकितवपुः पृष्ठे जल्पंस्तथेति समाहितः // 36 // उदानन्दाश्रि(क्षि)णी बिभ्रन् नेत्रपात्रे पवित्रितम् / स्वं कृतार्थं च मन्वानः पिबेत्तद्वचनामृतम् // 37 // नीचासनो न चासन्नो नातिदूरे न पृष्ठतः / न पार्श्वतः समश्रेण्या पुरोऽपि न पराङ्मुखः // 38 // सम्मुखीनोऽग्रतः पृष्ठे स्थास्नुकायः स्थिरासनः / नैवान्नपादिकां कुर्यान्नैव पादप्रसारिकाम् // 39 // अवष्टम्भं न पट्टादौ नापि पर्यङ्कबन्धनम् / नाधिक्षेपं विवादं नो न सावज्ञं न चापरम् व्याख्यानादन्यदाप्येषां चेतसे यन्न रोचते / अपथ्यमिव दूरेण हितैषी तद्विवर्जयेत् // 41 // सः / // 40 // 144