________________ // 42 // // 43 // // 44 // // 45 // चित्तानुवर्ती सर्वत्र प्रविष्ट इव चेतसि / प्रवर्तेत निवर्तेत हितकारी प्रियङ्करः यथा पूर्वं तथा पश्चाद् यथाऽग्रे पृष्ठतस्तथा। निर्व्याजवृत्तिः पूज्यानां सुखीकुर्यान्मनः सदा इति गुरुजनं भक्त्याऽऽराध्य प्रयत्नपरायणा विमलमनसो धन्या मान्या जनस्य सुमेधसः / श्रुतजलनिधेर्गत्वा प्रान्तं नितान्तमहीयसः सपदि सुखिनः सम्पद्यन्ते पदं परसम्पदाम् नो माता सुतवत्सला न च पिता स्वामी प्रसन्नो न वा न भ्राता सहजाञ्जसो न सुहृदो नार्था न हस्त्यादयः / यनिष्कारणनिष्कलङ्ककरुणाः सर्वोपकारोद्यता हेयादेयविपश्चितस्तनुमतां श्रीसूरयः कुर्वते गुरूपकारः शक्येत नोपमातुमिहापरैः / उपकारैर्जगज्ज्येष्ठो जिनेन्द्रोऽन्यनरैर्यथा जन्मशतैरपि शक्यं नृभिरानृण्यं गुरोर्न तु विधातुम् / तद्गुणदानाभावे ते च गुणास्तस्य सन्त्येव ततो गुरूणां चरणाम्बुजं सदा कृतज्ञभावेन कृती निषेवते। पदं महासम्पदमन्यदीहितं हितं मनोहारि यशांसि विन्दते ये शृण्वन्ति वचो जिनस्य विधितो ये श्रावयन्त्यादृता मन्यन्ते बहु ये पठन्ति सुधियो ये पाठयन्ते परम् / ये भूयो गुणयन्ति येऽपि गुणिनः सञ्चिन्तयन्त्युद्यतास्ते कर्म क्षपयन्ति भूरिभवजं तापं पयोदा इव बोधयन्त्यमलबोधशालिनो ये जनं जिनमतं महामतिम् / . सत्त्वसार्थमखिले महीतले लीलयैव परिपालयन्ति ते मिहापरः। // 46 // // 47 // // 48 // // 49 // // 50 // .. . 145