________________ दहति मदनवह्निर्मानसं तावदेव भ्रमयति तनुभाजां कुग्रहस्तावदेव / तुलयति गुरुतृष्णा राक्षसी तावदेव स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् // 22 // त्रुट्यन्ति स्नेहपाशा झटिति विघटते दुर्निवारा दुराशा प्रौढो गाढाधिरूढो रहयति दृढतां कर्मबन्धप्रबन्धः / ध्वंसन्ते ध्वान्तपूगा इव दिवसपतेः पातकार्थाभियोगा योग्यानां ज्ञानयोगादुपरमति मतिर्गेहदेहादितोऽपि // 23 // शास्त्राञ्जनेन जनितामलबुद्धिनेत्रस्तन्त्रोपकल्पितमिवाखिलजीवलोकम् लोलं विलोकयति फल्गुमवल्गुरूपं नास्थामतो वितनुते तनुकाञ्चनादौ सज्ज्ञानलोचनमिदं भविनोऽसमानं भूतं भविष्यदपि [पश्यति] वर्तमानम् सूक्ष्म तिरोहितमतीन्द्रियदूरवर्ति ज्ञेयं विलोकयति विष्टपमध्यवर्ति 25 विनापि चक्षुषा रूपं निश्चिन्वन्ति विपश्चितः / चक्षुष्मन्तोऽपि नाज्ञाना हेयोपादेयवेदिनः // 26 // शास्त्रनेत्रविहीनो हि वाहरोहादिवर्जितः / / पशोरपि नरः पापः कथं जीवन् न लज्जितः // 27 // नरेण शास्त्रशून्येन किं शोच्येन विपश्चिताम् / तिरश्चोऽपि जघन्येन लब्धनाशितजन्मना . // 28 // श्लाध्याः सुलब्धजन्मानः स्पृहणीया विवेकिनाम् / पूजनीया जनस्यान्ये धन्याः शास्त्रविशारदाः // 29 // श्रूयन्ते श्रुतिनोऽश्रान्तं श्रेणिभिः श्रीमतां श्रिताः / विश्राणयन्तः श्रेयांसि श्रुतीनां विश्रुताः श्रुताः // 30 // पूज्यन्ते श्रुतशालिनो नृपशतैराज्ञाविधेयैर्जनैरन्यैरप्यनुवासरं सविनयैर्भक्त्या विनेयैरिव / 143