________________ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् / ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा // 12 // अज्ञानी यत् कर्म क्षपयति बहुवर्षकोटिभिः प्राणी। तज्ज्ञानी गुप्तात्मा क्षपयत्युच्छ्वासमात्रेण // 13 // वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति / न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः // 14 // यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः / परमपदानन्दादिव भवभवनसमुद्भवानन्दः - // 15 // समीहमानैः स्वपरोपकारं ज्ञानं सदा देयमचिन्तयद्भिः। परिश्रमं श्रीश्रमणैः स्वकीयं कृत्यान्तरं वा सुतरामतन्दैः // 16 // नास्मिंश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु प्रायः [कायः प्र] चयति न वा दुष्टचेष्टामनिष्टाम् व्यग्रं वक्रं वदति न परं येन सावद्यजातं धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् // 17 // ज्ञानमेकमनेकेषामेककाल [उपक्रि]याम् / करोति याति नो हानि दत्तं वर्धेत कौतुकम् // 18 // अपास्यति कुवासनां भवशतार्जितां तर्जितां प्रमार्जयति दुर्जयं निबिडपापरूपं रजः / प्रकाशयति च स्फुटं किमपि वस्तुतत्त्वं परं करोति सकलं शुभं परिणता विदेषा नृणाम् // 19 // मुष्णाति विषयतृष्णां पुष्णाति च निर्वृति हरत्यरतिम्। ' अमृतमिव ज्ञानमिदं कोपाद्युपतापमपनुदति . // 20 // विलसदतुलमोदं मानसं मानमुक्तं विपुलपुलकपूर्णं तूर्णमङ्गं विधत्ते / श्रुतिसुखमसमानं लोचने चाश्रुगर्भे श्रुतमपि जिनवाक्यं श्रेयसामेकहेतुः 142