________________ // 4 // श्रीमज्जिनोऽभ्यधित(?) विश्वजनीनवाक्यः कस्यापि साधनविधिः किल कोऽपि शक्यः / // 1 // ज्ञानस्याद्यं दानमत्रानिदानं दातुर्लातुर्धर्मसिद्धेर्निदानम् / ......न्यत् स्यात् सुखानां निधानं तेनैवादावुक्तमेतत् प्रधानम् // 2 // अभयानादिभ्यां(?) तु प्रवर्तननिवर्तनेन मया॑नाम् / अर्थेऽनर्थे च यथा ज्ञाता तेनोत्तमं ज्ञानम् // 3 // सर्वपुरुषार्थसिद्धेर्निबन्धनं धीधना वदन्तीदम् / तेन ज्ञानं ददता दत्ताः [सर्वेऽ]पि पुरुषार्थाः अन्यच्च धर्ममूलं करुणा सा ज्ञानकारणा सिद्धा। सिद्धान्तेऽपि प्रथितं प्रथमं ज्ञानं ततः करुणा // 5 // धर्मेण चाखिलसुखानि समीहितानि मामरेषु मनुजो लभते हितानि। / धर्मः समस्तसुखसिद्धिनिमित्तमुक्तः सर्वेण वादिनिवहेन विना विवादम् तद्धर्मसाधनमिदं ददताखिलानि सौख्यानि धर्मजनितानि समर्पितानि / वित्तं [पुन] वितरता वनितारतादिवस्तूनि वित्तसुलभानि विलोभनानि लोकेऽपि रूपके दत्ते प्रदत्तं भोजनं जनः / हेतौ कार्योपचारेण निर्विचारं वदत्यदः // 8 // लोकद्वयेऽभिलषता विपुलोपकारं दातव्यमेतदनिशं करुणापरेण / झानात् परं न परमस्ति परोपकारसम्पादनं सपदि सम्पदमादधानम् 9 ज्ञेयं ज्ञात्वा ज्ञानतो ज्ञानवन्तो हेयं हित्वा पूजनीया जनानाम् / सञ्जायन्तेऽत्रैव जन्मन्यजस्रं पापस्रसादन्यजन्मन्यवश्यम् // 10 // कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् / मिथ्यात्वादिविरोधिबाधनं सिद्धेः सिद्धं साधु साधनम् // 11 // . 141 // 6 //