________________ // 41 // अन्येऽप्यदृश्यसादृश्या दृश्यन्ते हरिणीदृशाम् / / हरन्तो हृदयं हृद्याः पुण्यैः प्राप्ताः परं पदम् जगज्जनितविस्मयं त्रिभुवनाधिपत्यं परं तृणीकृतपदान्तरं निरुपमं जिनानां पदम् / विशालशुभशाखिनोऽसुलभने(मे)कमुच्चस्तरां .. . स्फुरत्यखिलमुज्ज्वलं फलमफल्गुवल्गुस्फुटम् // 42 // रात्रिदिवं नृदिवधामनि भूरिधामा धर्मेण निर्मलसुखं सुरनायकोऽपि / भुङ्क्ते नमत्रिदशकोटिकिरीटकोटि- सङ्घदृष्टचरणो रुचिरं चिराय 43 ईर्ष्याविषाद[विष] मैर्विषयाभिलाषसम्पाद्यदुःखनिवहैर्निखिलैर्विमुक्ताः / मुक्ता इवातिसुखिनः सुचिरं वसन्ति सर्वार्थसिद्धसुरधामनि धर्मतोऽन्ये ' - // 44 // प्रत्यक्ष............मुज्जवलमिदं चन्द्रस्य भद्रङ्करं सान्द्रप्रद्रुतचन्द्रिकामृतरसप्रक्षालितक्ष्मातलम् / लोकालोकनलोचनोत्सवकरं मार्तण्डसन्मण्डलं तेजोमण्डितभूमिमण्डलमिदं पुण्यैस्तदप्याप्यते // 45 // जरामरणवर्जितं शिवपदं यदप्यूजितं / निरन्तरसुखाञ्चितं निरुपमं रुजा वञ्चितम् / अनन्तमतिदुर्लभं शुभविवेकिनां वल्लभं समस्तहतकर्मतस्तदधिगम्यते धर्मतः // 46 // द्वितीयोऽवसरः धर्मस्य निर्मलधियामथ साधनानि सद्दानशीलसुतपांसि सभावनानि / 140