________________ नाभुक्ते वल्लभे भुङ्क्ते शेते नाशयिते शुचिः / चित्तानुवर्तिनी पुण्ये वर्तनी निर्वृतेः प्रिया // 32 // एकवित्तेव वित्तेषु विनीता नीतिकोविदा / निर्मदा प्रमदा पुण्यैः पुंसः स्यात् सम्मदास्पदम् // 33 // भोग्या योग्या साधुबन्धूपयोग्या लोके श्लाघ्या श्लोकधर्मैकहेतुः / जाये...जायते पुण्यभाजां श्रीः कुर्वाणा निर्वृति निर्विवादा // 34 // स्वपरोपकारनिपुणाः पुरुषार्थपरायणाश्चिरं सुखिनः / जीवन्ति स्पृहणीयं धर्मेण नराः सुधर्माणः // 35 // सत्तारुण्यं तारलावण्यपुण्यं पीयूषं वा नेत्रपात्रप्रपेयम् / स्त्रीपुंसानां कामदेवैकधाम प्राज्ञाः प्राहुर्धर्मबीजप्ररोहम् // 36 // .......... रिपुबलमखिलं खेलया खण्डयन्ति प्रोद्दण्डैर्मुण्डखण्डैरिह रणधरणीमण्डलं मण्डयन्ति। पादाङ्गुष्ठस्य कोट्या यदतुलमचलं लीलया चालयन्ति धर्मस्या[चिन्त्यश]क्तेस्तदपि विलसितं साधवः साधयन्ते // 37 // कैलासः किल रावणेन तुलितो बाहुद्वयेनाचल: श्रीगोवर्धनभूधरो मुरजिता तूर्णं च तीर्णोऽर्णवः / चक्री बाहुबलेन बाहुबलिना भग्नो विलग्ने रणे किं नो निर्मलधर्मनिर्मितिरियं निर्मापयत्यद्भुतम् // 38 // द्वात्रिंशत्सत्सहस्रैः सविनयविनतैः सेवितो भूपतीनां द्विस्तावद्भिः सुरस्त्रीविसरविजयिनां कान्तकान्ताजनानाम् / रत्नैह्निःसप्तसङ्ख्यैरनिधनसुधनैः सन्निधानैनिधानैमर्त्यानां मूर्धवर्ती मणिरिव सुकृती वर्तते चक्रवर्ती // 39 // पूर्वाजितोर्जितशुभेन भवन्ति भूपाः श्वेतातपत्रचमरादिविचित्रचिह्नाः / सामन्तसन्ततिसमानतपादपद्मा देवा इवातिरुचिरा स्फुरितोरुपद्माः 40 139