________________ वस्त्रं जलेन पूतं स्या-त्पुनस्तन्मलिनं भवेत् / तपसा च कृतः शुद्धो, देहो न स्यान्मलीमसः . // 159 // दानेन न च या सिद्धि मन्त्रतन्त्रादिभिर्न च / सिद्ध्यति तपसा सिद्धिः, श्रीबाहुबलिवत्किल // 160 // तपसा क्षीयते कर्म, केवली कर्मणः क्षयात् / वृणुयात्तं च मुक्तिस्त्री-स्तत्र सौख्यं निरन्तरम् // 161 // तन्तप्यते यश्च तपोऽभिराम-मटाट्यते नैव भवार्णवं च / लंलभ्यते मुक्तिकरं स सद्यो, द्रढप्रहारीव सुखी च लोके // 162 // भव्यैश्च भावना भाव्या, भरतेश्वरवद्यथा / फलन्ति दानशीलाद्या, वृष्ट्या यथेह पादपाः // 163 // पञ्चभिः पञ्चभिर्याश्च, भावनाः पञ्चविंशतिः / ताभिर्महाव्रतान्येव, साधयन्त्यमृतं पदम् . - // 164 // दाने शीले तपस्येव, भावना मिलिता यदि / तदा मोक्षसुखाकाङ्क्षा, चिन्तनीया जनैरिह // 165 // सर्वतो देशतश्चैव, विरतिः सफला तदा / यदा भावयुता लोके, स्वर्गमोक्षसुखप्रदा // 166 // षट्खण्डराज्ये भरतो निमग्नस्ताम्बूलवक्त्रः सविभूषणश्च / आदर्शहर्ये जटिते सुरत्नै निं स लेभे वरभावतोऽत्र // 167 // धनाढ्यत्वं च सौभाग्यं, विद्वत्वं सुपरिच्छदः / / एकछत्रनृपत्वं च, देवपूजाफलं मतम् // 168 // दारिद्रयमथ दौर्भाग्यं, मूर्खत्वं दुःपरिच्छदः / दुमित्रं दुनृपो दुर्धी, नैते स्युर्देवपूजनात् . // 169 // यो हि देवार्चनं कुर्यात्, सैव हस्तः प्रशंसकः / तद्विना च सर्वस्यापि, करो निरर्थको मतः // 170 // 15