________________ ये देवा ये पुमांसश्च, शुद्धसम्यक्त्वधारिणः / आप्नुयुर्देवपूजां ते, तिर्यञ्चो नारका न च // 171 / / देवार्चनं भव्यजनैविधेयं, निरन्तरं निर्मलभावयुक्तैः / सौभाग्यमत्र त्रिदिवं परत्र, सूर्याभवन्मुक्तिप्रदं क्रमेण // 172 // अयोमयोऽपि यो मर्त्यः, सुवर्णमुकुटोपमः / कृतो यद्गुरुणा नालं, तस्योपकारपूर्तये // 173 / / गुरुः प्रवहणं सम्यक्, संसारार्णवतारणे / यथा केशीकुमारोऽभूत्, प्रदेशीनृपतारक: . // 174 // हर्म्यज्योतिर्निशाज्योति-रहकॊतिस्ततोऽधिकः। . गुरुज्योतिश्च येनाहं, तेजःपुञ्जमयः कृतः // 175 // हावलम्बनं स्तम्भो, दण्डो वृद्धावलम्बनम् / देहावलम्बनं भोज्यं, भव्यावलम्बनं गुरुः // 176 // गुरुयैश्च लब्धो वरो वीरनाथः, सदानन्दमुख्यैर्दशश्रावकैश्च / प्रसादात्ततः स्वमसौख्यं भजन्ति, मनुष्यं भवं प्राप्य मुक्तीश्वरास्ते // 177 उद्यमेन विना विद्वन्, न सिद्ध्यन्ति मनोरथाः / तीर्थंकरपदं लेभे, रेवत्युद्यमहेतुतः // 178 // भविष्यतीति यद्भाव्यं, वदन्त्यालस्यदेहिनः।। ज्ञानिनश्चेति जल्पन्ति, लभेरन् धर्मतो जयम् // 179 // तन्द्रां विहाय कर्तव्यः, प्राणिभिः सर्वथोद्यमः। दानशीलतपोभावाः, सार्थाः स्युजिनशासने // 180 // मौनं कृतं मल्लीजिनेन चात्र, तप्तं तपश्चादिजिनेन तीव्रम् / नानोपसर्गाः सहितास्तु वीरैः, कोप्युद्यमं वारयितुं समर्थः // 181 // 135