________________ दुष्टा रामा सुता दुष्टा, दुष्टाः परिजना जनाः / भ्रातरो दुःखदातारः; पापाद्भवन्ति सर्वदा . // 136 // श्रीब्रह्मदत्तो नरचक्रवर्ती, मृत्वा गतः सोऽपि हि सप्तमी च / निर्गत्य तस्माद्भवपङ्कमग्न-स्तत्रापि हेतुः किल पातकस्य॥ 137 // उपशामिकमेकं च परं क्षायोपशामिकम् / तृतीयं क्षायिकं तुर्य, सास्वादनं च वेदकम् // 138 // जैनधर्मे च दक्षत्वं, संस्थैर्योन्नतिभक्तयः। तीर्थसेवेति पञ्चापि, सम्यक्त्वभूषणानि च // 139 // शङ्काकाङ्क्षाविचिकित्सा, जैनादन्यस्य संस्तुतिः / तत्संस्तवोऽपि पञ्चैव, सम्यक्त्वदूषणानि च // 140 // मूलं धर्मस्य सम्यक्त्वं, स्वर्गसौख्यफलप्रदम् / अनुक्रमेण मोक्षस्य, सुखदं भणितं ध्रुवम् // 141 // प्रबोधरत्नं हृदि यस्य नित्यं, वसेद्वरं तस्य यशोऽपि मह्याम् / लभेत पूजामिह मुक्तिमग्रे, स भूपतिः श्रेणिकवत्पृथिव्याम्॥ 142 // कान्तरूपं यशोलाभं, विद्वत्त्वं भामिनीसुखम् / . पूर्णं धनं सुतं पुण्यात्, प्राप्नुयात् पूर्वसञ्चितात् // 143 // संभाव्यते ह्यसंभाव्यं, निजपुण्यप्रभावतः / दमयन्त्यास्तिलके यत्तेजोऽभूत् पूर्वपूण्यतः // 144 // राजमानं धनाढ्यत्वं, सद्गुणाढ्यप्रियासुखम् / ' * पूर्णं यशो विवेकित्वं, पुण्यद्रुमफलानि च // 145 // तीर्थंकरत्वं चकित्वं वासुदेवत्वमेव च / लभते च नरो भूम्यां, देवत्वं पूर्वपूण्यतः // 146 // श्रीरामचन्द्रस्य महाजयोभूत्, पुण्यात्पुरा रावणसङ्ग्रे च। . पुण्याढ्यराजा परमं प्रतापं, लेभे बलं तत्र वृषस्य हेतुः // 147 / / 123