________________ कुष्टाभिभूतभृत्यानां, मन्येतानङ्गतुल्यताम् / द्रव्यार्थं, न च स्नेहार्थं, गणिका सुखदा न सा // 113 // लोभार्थिनी निर्लज्जा च, पापिष्टा पापकुण्डिका / विट्चुम्बिता च निःस्नेहा, कथं सेव्या पणाङ्गना // 114 // सा कण्ठाश्लेषमाधत्ते, परं प्रीतिविवर्जिता / तेनाऽज्ञास्तत्र बध्यन्ते, यथा सिंहाश्च पञ्जरे // 115 // वेश्यासङ्गाच्च सप्तैव, नश्यन्त्यङ्गच्छविर्यशः / लज्जा च संततिः सिद्धि द्रव्यं च गृहगाङ्गना // 116 / / कदापि वेश्या न गुणार्थिनी स्याद् रूपार्थिनी नैव हितार्थिनी च / विद्यार्थिनी नापि न मन्यसे चेद्वार्ता शृणु त्वं कयवन्नकस्य / / 117 / / धूपात्प्रस्विम्नदेहश्च, ह्यट्यते वनगहरे।। आखेटे किं सुखं तत्र, पापरूपे निजात्मनः / // 118 // पुनः पुनः पापच्येत, परभव(ता-ऽन्यभवे) नरकावनौ / सततं रुधिरालिप्त-करेणाखेटकारिणा // 119 // आखेटकेषु विध्येरन्, प्राणिनः प्राणिनोऽत्र ये / नरके तेऽप्यनुविध्येरन्, परत्रेत्यवदज्जिनः // 120 // श्वभ्रद्वाराणि पञ्चैव, द्रोहो हत्या तथा भुवि / मांसादनं गुरोनिन्दा, तथा खेटकपातकम् . // 121 // आखेटकं चेद्यदि न त्यजेच्च, परत्र बन्धादिकदुःखराशिम् / सहेत चास्मिन् परमापदं हि, यथाऽजपुत्रो रधुवंशजातः // 122 // चौर्यकर्ता चौरमन्त्री, स्थानदश्चौररक्षकः / चौरेण सह व्यापारी, चौरः पञ्चविधः स्मृतः // 123 // निर्दयः खरवाक् क्रूरः, शठो धृष्टश्च निर्भयः / निर्दाक्षिण्यः क्रूरकर्मा, चौरस्याष्टौ गुणाः स्मृताः // 124 // 131