________________ लभेत शं पराधीनात्, तत्त्वबुद्धिं तु मद्यपात्। यदा प्रमादतो ज्ञानं, भवेद् द्यूताद्धनं तदा // 101 // न यन्त्रसाध्यं न च तन्त्रसाध्यं, न मन्त्रसाध्यं न च मन्त्रिसाध्यम् / : एवंविधं द्यूतमतः प्रमोच्यं नो चेत्यजेत्पाण्डववद्भवेच्च // 102 // द्यूतान्नलेनापि च राज्यभारममोचि द्रव्यं नृपकोटिभिश्च / श्रीमूलदेवप्रमुखैस्तथेह लभेत को द्यूतत एव धूम्नम् // 103 // . मांसादनात्प्रणश्यन्ति, देहश्री: सुमतिः सुखम् / शौचं सत्यं यशः पुण्यं, श्रद्धाविश्वाससङ्गतिः // 104 // मांसादनाज्जनानां हि, जायते विभ्रमो ध्रुवम् / निर्दयत्वमशौच्यं च, दुर्धीर्दु:खपरम्परा // 105 // प्रपश्यन्ति पशून् यत्र, मनस्तत्र प्रवर्तते / रागता मांसपुष्टे स्याद् दुर्बलत्वे विरागता // 106 // पापकर्मघटे पूर्णे, रौद्रध्यानवशं गते / मांसभुग्मरणं प्राप्य, व्यथां सहते दुर्गतेः // 107 // सा रेवती या नरके प्रविष्टा मांसादनाद्भीमकुकर्मकी / श्रीश्रेणिकेनापि पलाशनाच्च प्राप्ता हि पीडा नरकस्य तीव्रा // 18 // पारवश्यमशुचित्वं, विकलत्वमचेष्टता। निर्दयत्वं भवेत्तस्मात्, सुरापानं विवर्जयेत् . // 109 // शैथिल्य विग्रहे वस्त्रे नेत्रयुग्मे मदान्धता / पतनं यत्र तत्रापि, मद्यं पिबेत्ततो न च // 110 // संततिर्नास्ति वन्ध्यायाः, कृपणस्य यशो न हि। कातरस्य जयो नैव, मद्यपस्य न सङ्गतिः // 111 // यस्या धवो माधववासुदेवः, सुवर्णदुर्गा धनदेवदत्ता। सा द्वारिका प्रज्वलिता च नूनं, तत्रापि हेतुः किल मद्यपानम् // 112 // 130