________________ // 89 // // 90 // // 91 // // 92 // // 93 // // 94 // वक्त्रं परापवादेन, स्वस्य यत्समलं कृतम् / तच्च केनाप्युपायेन, कर्तुं नार्हति निर्मलम् एके च जातिचण्डालाः, कर्मचण्डालनिन्दकः / ज्ञात्वेति हृदये सम्यक्, परापवादमात्यजेत् मनस्यन्यद्वचस्यन्यत्, मायामृषा च सोच्यते / कदापि सुखदा न स्या-द्विश्वे यथा पणाङ्गना फलं यथेन्द्रवारुण्याः, कटुमायामृषावचः / अन्तरङ्गधिया श्रेयस्करं न स्याद्यतोऽत्र च खड्गधारां मधुलिप्तां, विद्धि मायामृषान्ततः / वर्जनीया प्रयत्नेन, विदुषा शिववाञ्छता मुग्धप्रतारणाद्यर्थं, मायामृषां वदेन च पूर्वं सुधानिभा सा च, यतोऽन्ते तत्फलं कटु शत्रुभिर्निहितं शस्त्रं, शरीरे जगति नृणाम् / / यथा व्यथां करोत्येव, तथा मिथ्यात्वमात्मनः . दुर्वचनं पराधीनं, शरीरे कष्टकारकम् / शल्यं शल्यतरं तस्मात्, मिथ्यात्वशल्यमात्मनि स्वाध्यायेन गुरोर्भक्त्या, दीक्षया तपसा तथा / येन केनोद्यमेनैव, मिथ्यात्वशल्यमुद्धरेत् . मिथ्यात्वशल्यमुन्मूल्य, स्वात्मानं निर्मलीकुरु / यथाऽजस्रं सुसिन्दूर-रजसा भुवि दर्पणः न च स्याद् द्रोहतः प्रेम परस्त्रीलम्पटाद्यशः / दयया रहितो धर्मो, यथा द्यूताद्धनं तथा द्यूतस्य व्यसनं त्याज्यं, नरेण शुभवाञ्छता / हठाद्यदि न मुच्येत, तदा क्लेशपरम्परा // 95 // // 96 // // 97 // // 98 // // 99 // // 100 // 129