________________ 19 // ज्योत्स्नां ग्रीष्मजघर्मवत्स मनुते कारुण्यपण्यापणं . जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते धर्मं जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मथ्नाति मिथ्यामतिम् / वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यतज्जैनं मतमर्चति प्रथयति ध्यायत्यधीते कृती // 20 // रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सर: पङ्केरुहाणामिव / पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः // 21 // यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः / यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् // 22 / / लक्ष्मीस्तं स्वयमभ्युपैति रभसाकीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया / स्व:श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यःसङ्घ गुणराशिकेलिसदनं श्रेयोरुचिः सेवते // 23 // यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यवच्चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते / शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् // 24 // क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवोंदन्वन्नौर्व्यसनाग्निमेघपटली संकेतदूती श्रियाम् / /