________________ अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः / स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम्।। 13 // विदलयति कुबोधं बोधयत्यागमार्थं सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति / अबगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् // 14 // पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः / निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न पर: // 15 // किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्णं भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः / किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः न देवं नादेवं न शुभगुरुमेवं न कुगुरुं न धर्मं नाधर्मं न गुणपरिणद्धं न विगुणम् / न कृत्यं नाकृत्यं न. हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः // 17 // मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयोनिर्माणं गुणदोषभेदकलनां तेषामसंभाविनीम् / दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथि: // 18 // पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमवन्मित्रं शात्रववत्स्रजं भुजगवचिन्तामणि लोष्ठवत् / // 16 //