________________ . || 7 // // 8 // // 9 // अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः / ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते भक्ति तीर्थकरे गुरौ जिनमते सङ्के च हिंसानृत- . स्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् / सौजन्यं गुणिसङ्गमिन्द्रिषदमं दानं तपो भावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् / सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि / संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा . यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्रयं चकितमिव नश्यत्यनुदिनम् / विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्णं सुहृदिव जिनार्चा रचयतः यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते / यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लृप्तकर्मनिधनः स ध्यायते योगिभिः // 10 // // 11 // // 12 //