________________ पू.सोमप्रभाचार्यविरचिता ॥सूक्तिमुक्तावली // ___ सिन्दूर प्रकरः सिन्दूरप्रकरस्तपःकरिशिर:क्रोडे कषायाटवीदावाचिनिचयः प्रबोधदिवसप्रारम्भसूर्योदयः / मुक्तिस्त्रीकुचकुम्भकुङ्कुमरस: श्रेयस्तरोः पल्लवप्रोल्लास: क्रमयोर्नखद्युतिभरः पार्श्वप्रभोः पातु वः सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यता: सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् / किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेन किम् . // 2 // त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविफलं नरस्य / तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ // 3 // यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्नेन करोति मूढः / क्लेशप्रबन्धेन स लब्धमब्धौ चिन्तामणि पातयति प्रमादात् // 4 // स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येन्धभारम् / चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं . यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः / विक्रीय द्विरदं गिरीन्द्रकरणि क्रीणन्ति ते रासभं ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशया // 6 //