________________ निःश्रेणिस्त्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः . // 25 // यदि ग्रावा तोये तरति तरणिर्यधुदयते प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि / यदि क्षमापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् // 26 // स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्त्रात्साधुवादं विवादात् / रुगपगममजीर्णाज़्जीवितं कालकूटादभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् // 27 // आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं. वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चस्तरम् / आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधि करोति सुतरं नेतः कृपार्टान्तरम् // 28 // विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् / श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् // 29 // यशो यस्माद्भस्मीभवति वनवहेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव / ' न यत्र स्याच्छायातप इव तप:संयमंकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् // 30 // असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम्। . विपनिदानं परवञ्चनोजितं कृतापराधं कृतिभिर्विवर्जितम् // 31 //