________________ धर्मश्च त्रिदिवापुनर्भवभवः प्रादुर्भवत्यञ्जसा नव्योऽयं मुदमातनोतु महतामौचित्यचिन्तामणिः // 170 / / . भक्तिस्तीर्थकृतां नति: प्रशमिनां जैनागमानां श्रुति मुक्तिर्मत्सरिणां पुनः परिचितिनैपुण्यपुण्यात्मनाम् / अन्येषां गुणसंस्तुतिः परिहतिः क्रोधादिविद्वेषिणां, पापानां विरती रतिः स्वसुदृशामेषा गतिर्धर्मिणाम् // 171 // सौजन्यं जनकः प्रसूरुपशमस्त्यागादर: सोदरः, पत्नी पुण्यमतिः सुहृद्गुणगणः पुत्रस्त्रपासंगमः / नैर्दम्भ्यं भगिनी दया च दुहिता प्रीतिश्च मातृस्वसा, सान्द्रानन्दकुटं कुटुम्बकमिदं प्राहुः सतां धीधनाः // 172 // अर्चाहतां संयमिनां नमस्या, सङ्गः सतां संश्रुतिरागमानाम् / दानं धनानां करुणाङ्गभाजां मार्गोऽयमार्यैरुदितः शिवस्य॥ 173 / / विस्फुर्तिमत्कीर्तिरनिन्द्यविद्या, समृद्धिरिद्धा रमणीयरूपम् / सौभाग्यसिद्धिर्विमलं कुलं न, फलानि धर्मस्य षडप्यमूनि।। 174 / / सौहार्द्ददृष्टिः सुकृतैकपुष्टिः, परोपकारः करुणाधिकारः / विवेकयोगः समताभियोग: संतोषवृत्तिः कृतिनां प्रवृत्तिः // 175 // ज्ञानी विनीतः सुभगः सुशीलः, प्रभुत्ववान्यायपथप्रवृत्तः / त्यागी धनाढ्यः प्रशमी समर्थः, पञ्चाप्यमी भूमिषु कल्पवृक्षाः 176 दुःस्थोऽपि यः पातकभीतचेता, युवापि यो मारविकारहीनः / आढ्योऽपि यो नीतिमतां धुरीण, स्त्रयोऽप्यमी देवनदीप्रवाहाः 177 वृत्तिर्नीतिमती रमा च परमा शश्वद्विनीताः सुता, बन्धुबन्धुरधीर्मतिः स्मृतिमती वंशः प्रशंसास्पदम् / वीर्यं वर्यतरं वचश्च मधुरं मूर्तिश्च विस्फुर्तिभाक्, सानन्दं विदुरैरिदं निगदितं धर्मस्य लीलायितम् // 178 // 119