________________ // 164 // // 165 // // 166 // यत्सद्रूपस्वरूपे क्षणसुखविमुखं यत्क्षणे क्षीणकाङ्क्ष, यद्वित्ते वीतवाञ्छं हृदयमिदमभूत्तद्विरक्तत्वचिह्नम् हेमन्ते हिमवातवेल्लितवने वस्त्रैविना यत्स्थिति, र्गीष्मे भीष्मखरांशुकर्कशरजःपु षु शय्या च यत् / यद्वर्षासु गिरेगुंहासु वसतिश्चैकाकिनां योगिनां, .. तढुक्ननिबन्धनैरविजितं वैराग्यविस्फुर्जितम् काव्यानां करणैः कृतं सुरूचिरैर्वाचां प्रपञ्चैः सूतं, पूर्णं बाहुबलैरलञ्च तपसां पूरैः प्रसिद्ध्यङ्कुरैः / एकश्छेकजनैःप्रमोदविपणिः सेव्यो विवेकः सखे, सर्वा येन विनेन्दुनेव रजनिः श्रेणिर्गुणानां मुधाः यस्मिन् रम्यरुचेर्यश:कुमुदिनीभर्तुर्भवेत्संभवः, संप्राप्त्यै विबुधेश्वरैरिह गवां यः सेव्यते रत्नभूः / येनोद्यत्कतिहारिणी गुणमणिश्रेणिश्च विश्राण्यते, दत्ते कस्य हरेरिवैष न रमां वैदग्ध्यदुग्धोदधिः . वैराग्यं सुभगं तदेव यशसां राशिः स एवोल्लसन्, स्फुर्तिः सैव शुभा च सैव च गुणश्रेणिर्मनोहारिणी। ध्यानं धन्यतमं तदेव वचसामोघस्स एवानघस्तारास्विन्दुरमन्दमन्दभवनं यत्रौचिती चञ्चति धर्मांशुर्ग्रहधोरणीष्विव करिवातेष्विवैरावण: कल्पद्रुः पृथिवीरुहेष्विव फणिश्रेणिष्विवाहीश्वरः / स्वःशैलो धरणीधरेष्विव हयस्तोमेष्विवोश्चैःश्रवा, भाति ख्यातिगृहं गुणेषु विलसन्नेको विवेकोदयः यस्माद्याचकलोककोकरुचिमानर्थः समर्थोदयः, कामश्चेन्द्रियचित्तवृत्तितटिनीप्रोत्कर्षवर्षागमः / 118 // 167 // // 168 // // 169 //