________________ वेषव्यूतिर्विशदवसनादेव साध्यातिमेध्या, विद्याहृद्या स्वमतिविभवादेवलभ्यातिसभ्या। वित्तावाप्तिभर्वति- च बहोरुद्यमादेव दिव्या, वस्त्र-प्रज्ञोद्यमपरिचयैः प्राप्यते नो गुणौघः // 158 // पाषाणखण्डान्यपि मौक्तिकानि, यत्संक्रमाल्लोलविलोचनानाम् / वक्षःस्थलेऽलङ्करणीभवन्ति, तेषां गुणानां महिमा महीयान् // 159 / / जातिः शारदशर्वरीश्वररुचां सौन्दर्यसंहारिणी, बुद्धिर्बह्वसमान वाङ्मयसरिनाथप्रमाथादिराद् / रूपं दर्पकदर्पसर्पफणभृत्प्रत्यर्थि तुल्यं पुन, स्तादृग्गौरवभाजनं भवति नो यादृग्गुणानां गणः // 160 // ग्रामीणेष्विव नागरोऽर्ककुसुमस्तोमेष्विवालियुवा, मातङ्गो मरुमेदिनीष्विव गृगो दग्धेषु दावेषु च / चक्रश्चन्दिरदीधितिष्विवशमीगर्भेष्विवाम्भश्चरो, नो भोगेषु रतिं करोति हृदयं वैराग्यभाजां क्वचित् // 161 / / यद्वाञ्छन्ति न दुर्भगामिव वधू प्रोत्तुन्तिगपीनस्तनी, यस्निह्यन्ति न तस्करैरिव सदा मुत्सुन्दरैः सोदरैः / नों मुह्यन्ति च पन्नगेष्विव मणिहारेष्वपारेषु च, योगोद्योगनियोगिनःप्रशमिनस्तत्साम्यलीलायितम् // 162 // यत्संसारसरोजसोमसदृशं यद्दम्भदीपद्युतौ, सर्पः सूर्पकशत्रुदर्पदलने यच्चन्द्रचूडामणिः / * यस्सद्बुद्धिवधूविनोदसदनं यत्साम्यसंजीवनं, वैराग्यं लसदात्मने प्रियसुहृत्तद्देहि देहि प्रियम् // 163 / / यत्कान्ताकेलिकुण्ठं यदमृतमधुरे भोजने भग्नभावं, यन्माल्यामोदमन्दं यदनघनिनदे वाद्यवृन्दे सनिद्रम् / - 117