________________ दौर्गत्यं धरणीरुहीव मरुतां भेजे न चेतोऽम्बुजे, स्थैर्य यस्य मृगीदृशां विलसितं धन्याय तस्मै नमः // 148 // भ्रूभङ्गभोगैर्लसदन्तरालै, नैणीदृशां देहसदर्पसपैः / सद्ध्यानदीप: समियाय शान्तिं, तस्मै नमः संयमिकुञ्जराय।। 149 // भूयोभारभराभिभूततरणी वार्द्धाविबोद्भीषणे, संसारे सपरिग्रहा तनुजुषां राजिर्निमज्जत्यधः। . तत्काङ्क्षन्ति परिग्रहं जपतपश्चारित्रपावित्र्यधी, शुद्धध्यानविधौ विधुतुदममुं मोक्तुं विमुक्तौ रताः // 151 // प्रद्वेषबन्धुः कलहैकसिन्धुः, प्रमादपीनः कुमताध्वनीनः / औद्धत्यहेतु धृतिधूमकेतुः, परिग्रहोऽयं दूरितदूतोऽयम् // 152 // पित्रोरुपास्तिं सुकृतानुशास्तिं, प्राज्ञैः प्रसङ्गं गुणवत्सु रङ्गम् / परिग्रहप्रेरितचित्तवृत्तिर्जहाति चैतन्यमिव प्रमीत: // 153 // नादित्यादपरः प्रतापनपटुर्नाब्धेः परस्तोयवान्, नैवान्यः पवमानतश्च चटुलो दुष्टो न मृत्योः परः / नैवाग्नेरितरः क्षुधाक्षुभितधीश्चौरः स्मरान्नेतरो, दोषाढ्यान्न परिग्रहात्परमधःस्थानं तथा सर्वथा . // 154 // धर्मध्यानमधीरयस्तरुमिव प्रोत्सपिकल्पानिलः, . . प्रीतिं पङ्कजिनीमिव द्विपपतिनिर्मूलमुन्मूलयन् / प्रावीण्यं च पयोजिनीपतिमिव स्वर्भाणुराच्छादयन्, श्लाघामेति परिग्रहः किमु कदा कादम्बरीपानवत् // 155 // तुम्बेषु चापेषु च मौक्तिकेषु गुणाधिरोपान्महिमामुदीक्ष्य / " कार्य: कदयैरिव काञ्चनेषु, यत्नो गुणेष्वेव मनस्विमान्यैः // 156 // दौर्जन्यसज्जे मनुजे वसन्तो, गुणा भवेयुर्नहि गौरवाय / गुणाधिरोपः परपीडनाय, कदापि चापेष्विव किं न दृष्टः // 157 / / 116